मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १७

संहिता

त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना॑म् ।
सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥

पदपाठः

त्रा॒ता । नः॒ । बो॒धि॒ । ददृ॑शानः । आ॒पिः । अ॒भि॒ऽख्या॒ता । म॒र्डि॒ता । सो॒म्याना॑म् ।
सखा॑ । पि॒ता । पि॒तृऽत॑मः । पि॒तॄ॒णाम् । कर्ता॑ । ई॒म् । ऊं॒ इति॑ । लो॒कम् । उ॒श॒ते । व॒यः॒ऽधाः ॥

सायणभाष्यम्

हे इन्द्र आपिराप्तो ददृशानः सर्वं पालकत्वेन पश्यन्स्त्वं नोऽस्माकं त्राता रक्शको बोधि । भव । किञ्च । अभिख्याताभिद्रष्टा मर्डिता सुखयिता सोम्यानां सोमार्हाणां यजमानादीनां सखा प्रजापतिना समानख्यातिः पिता पालकः । केवलं पालको न किन्तु पितॄणां पालकानां मध्ये पितृतमोऽतिशयेन पालकः कर्तेमु पितॄणां स्रष्टा च त्वं लोकं स्वर्गादिलोकमुशते कामयमानाय स्तोत्रे वयोधाः । वय इत्यन्ननामैतत् । अन्नप्रदो भव ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४