स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इ॑न्द्र स्तुव॒ते वयो॑ धाः ।
व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हय॑न्त इन्द्र ॥
स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ ।
व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒ऽबाधः॑ । आ॒भिः । शमी॑भिः । म॒हय॑न्तः । इ॒न्द्र॒ ॥
हे इन्द्र त्वं सखीयतां सखित्वमिच्छतामस्माकमविता रक्षिता बोधि । भव । तथा गृणानः । स्तूयमानस्त्वं सखा भव । हे इन्द्र स्तुवते स्तुतिं कुर्वते मह्यं वयोऽन्नं धाः । अधाः । धेहि । हे इन्द्र सबाधो बाधासहिता वयं हि वयं खलु ते त्वामा च कृम । आह्वयामः । किं कुर्वन्तः । अभि प्रत्यक्षेणोपलभ्यमानैः शमीभिः स्तुतिरूपैः कर्मभिर्महयन्तस्त्वां पूजयन्तः ॥ १८ ॥