मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् २०

संहिता

ए॒वा न॒ इन्द्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।
त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥

पदपाठः

ए॒व । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । वि॒ऽर॒प्शी । कर॑त् । स॒त्या । च॒र्ष॒णि॒ऽधृत् । अ॒न॒र्वा ।
त्वम् । राजा॑ । ज॒नुषा॑म् । धे॒हि॒ । अ॒स्मे इति॑ । अधि॑ । श्रवः॑ । माहि॑नम् । यत् । ज॒रि॒त्रे ॥

सायणभाष्यम्

अग्नि मारुतशस्त्र एवा न इन्द्र इति परिधानीया । सूत्रितं च । एवा न इन्द्रो मघवा विरप्शीति परिदध्यात् । आ. ५.२० । इति ॥

विरप्शी बहुविधशब्दवान् चर्षणी धृत् सर्वासां प्रजानां धारयितानर्वाप्रत्यैतः । केनापि प्रतिकूलेन न प्राप्त इत्यर्थः । मघवा धनवानिन्द्र एवैवमस्माभिः स्तुतः सन् नोऽस्माकं सत्या सत्यरूपाण्यभिमतानि फलानि करत् । करोतु । हे इन्द्र जनुषां जन्मवतां सर्वेषां राजा प्रभुस्त्वं माहिनं महिम्नोपेतं यच्छ्रवो यद्यशो जरित्रे स्तोत्रे देयं तद्यशोऽस्मे अस्मास्वधि अधिकत्वेन धेहि । एवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिधातीयं वा इन्द्रो मघवा विरप्शीत्यादि ब्राह्मणम् । ऐ. ब्रा. ३-३८ ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४