मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् २

संहिता

नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।
ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥

पदपाठः

न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।
ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥

सायणभाष्यम्

वामदेव एवमुक्तवन्तमिन्द्रं प्रत्याह । अहमतो योनिमार्गान्न निरया । न निरयाणि । न निर्गच्छानि । एतद्योनिनिर्गमरूपं वर्त्म दुर्गहा । दुर्ग्रहम् । दुःख्ःएन ग्रह्यम् । न प्राप्यं भवतीत्यर्थः । किन्तु तिरश्चता तिरश्चीनात्पार्श्वान्निर्गमानि । निर्गच्छानि । योनिदेशादनिर्गतोऽहं पार्श्वं भित्त्वानिर्गच्छानीत्यर्थः । अन्यैरकृतमिदमेव न केवलं मया क्रियते किन्त्वन्यैरकृतानि बहूनि कर्माणि मे कर्त्वानि कर्तव्यानि सन्ति । त्वेनैकेन सपत्नेन विवदमानेन सह युध्यै । युद्धं करवाणी । त्वेनैकेन बुभुत्सुना सं पृच्छै । सम्यक् पृच्छानि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५