मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ३

संहिता

प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।
त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्र॑ः शतध॒न्यं॑ च॒म्वो॑ः सु॒तस्य॑ ॥

पदपाठः

प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ ।
त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥

सायणभाष्यम्

मयि गर्भस्थिते सतीन्द्रो मदीयां मातरं पारयतीं परेतां म्रियमाणामन्वचष्ट । अन्वब्रवीत् । एवमपीदानीं गर्भे स्थितोऽहं पुराणं पन्थानं न नानु गानि । नानुगच्छानीति न । किन्तु नु क्षिप्रमनु गमानि । अनुगच्छान्येव । वामदेवः स्वकीयमकृत्यकारित्वं परिहृत्येन्द्रस्याकृत्यकारित्वमुत्तरार्धर्चेन प्रतिपादयति । इन्द्रश्चम्वोः सोमाभिषवफलकयोः सुतस्य सोमं सुतवतोऽभिषुतवतस्त्वष्टुः सम्बन्धिनि गृहेऽनुपहुतः सन् शतधन्यं बहुधनेन क्रीतं सोममपिबत् । बलात्कारेण सोमस्य पानं कृतवान् । अयमर्थस्तैत्तिरीयैस्त्वष्टा हतपुत्रोवीन्द्रं सोममाहरदित्यनुवाके । तै. सं. २-४-१२ । महता प्रबन्धेन प्रपञ्चितः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५