मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ४

संहिता

किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।
न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ॥

पदपाठः

किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः ।
न॒हि । नु । अ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । जा॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥

सायणभाष्यम्

अदितिर्यमिन्द्रं सहस्रं बहून्मासो मासान्पूर्वीर्बह्वीः शरदश्च सम्वत्सरांश्च जभार । बभार । बिभर्तेरिदं रूपम् । गर्भे स्थित इन्द्रो बहुषु सम्वत्सरेष्वदितिं क्लेशितवानित्यर्थः । एवंभूतः स इन्द्रः किं यत्किमपि । सर्वमपीत्यर्थः । ऋधक् विरुद्धं कर्म कृणवत् । अकरोत् । इन्द्रस्याक्षेपमसहमानादितिरिन्द्रमाताप्येनं प्रतिब्रूते । हे वामदेव जातेषूत्पन्नेषु देवादिष्वन्तर्मध्येस्येन्द्रस्य प्रतिमानं न ह्यस्ति । न विद्यते खलु । नु इति पादपुरणार्थः । उतापि च ये देवादयो जनित्वा जनयितव्या जनयिष्यमाणास्तेषु मध्येऽसेन्द्रस्य प्रतिमानं नास्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५