मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ८

संहिता

मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।
मम॑च्चि॒दाप॒ः शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्र॒ः सह॒सोद॑तिष्ठत् ॥

पदपाठः

मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ ।
मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥

सायणभाष्यम्

सूक्तशेषेण ऋषिरिन्द्रं स्तौति । हे इन्द्र ममच्चन माद्यन्त्येव । प्रमत्तैवेत्यर्थः । युवतिस्त्व्दीया मातादितिस्त्वा त्वां परास । पराचिक्षेक । किञ्च कुषवानाम्नी काचिद्राक्षसी सा ममच्चन प्रमत्तैव त्वा त्वां जगार । गिरति स्म । हे इन्द्र ममच्चित्प्रमाद्यन्त्य एवापः शिशवे जाताय तुभ्यम् ममृढ्य्ः । सुखयाञ्चक्रुः । ममच्चित् माद्यन्नेवेन्द्रः सहसा स्वेन वीर्येणोदतिष्ठत् । सूतिकाग्रहाद्राक्षसीं बाधमानः सन् उत्कर्षेण तस्थौ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६