मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ९

संहिता

मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।
अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥

पदपाठः

मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ ।
अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥

सायणभाष्यम्

हे मघवन्धनवन्निन्द्र ममच्चन प्रमाद्यन्नेव व्यम्सो नाम राक्षसो निविविध्वान् प्रविध्यन् ते हनू त्वदीये हनू मुखपार्श्वे अप जघान । अपहतवान् । अध अथानन्तरं हे इन्द्र निविद्धो राक्षसेन ताडितस्त्वमुत्तरो व्यंसादधिकबलो बभूवान् भुतः सन् दासस्य क्षीणस्य व्यंसस्य शिरो वधेन वज्रेण सं पिणक् । पिष्टवासि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६