मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् ११

संहिता

उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥

पदपाठः

उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः ।
अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥

सायणभाष्यम्

उतापि च हे मदीय पुत्रेन्द्र अमी वह्न्यादयो देवास्त्वा त्वां जहति । त्यजन्ति । इत्युक्तवतीन्द्रस्य मातादितिरिन्द्रं महिषं महान्तम् । महिष इति महन्नामैतत् । अन्ववेनत् । अयाचत । अथानन्तरं हे विष्णो व्यापनशील हे सखे मित्रभूत हरे त्वं वृत्रं हनिष्यन् हन्तुमिच्छन् वितरं वि क्रमस्व । अतिपराक्रमीभवेतीन्द्रो विष्णुमब्रवीत् । उवाच ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६