मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १८, ऋक् १२

संहिता

कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर॑न्तम् ।
कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥

पदपाठः

कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् ।
कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥

सायणभाष्यम्

हे इन्द्र यद्यस्मात्कारणात्पितुः सकाशज्जनिष्यमाणाद्भीतस्त्वं त्वदीयं पितरं पादगृह्य पादेशु गृहीत्वा प्राक्शिणाः । प्रकर्षेणावधीः । तस्मात्कारणात्तेत्वत्तोऽन्यः को देवो मातरं स्वकीयजननीं विधवां पितृवधेन पतिरहितामकच्रत् । अकरोत् । कस्त्वत्तोऽन्यः शयुं शयानं चरन्तं जाग्रतं वा त्वामजिघांसत् । हन्तुमैच्छत् । ते त्वत्तोऽन्यः को देवो मार्डीके प्रजानां सुखकरणेऽधि अधिक आसीत् । अयमर्थ ऋक्सामे वै देवेभ्य इत्यनुवाके यज्ञो दक्षिणामभ्यध्यायदित्यादिब्राह्मणेन । तै. सं. ६-१-३-६ । तैत्तिरीयकैर्बहुधा प्रपञ्चितः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६