मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् १

संहिता

ए॒वा त्वामि॑न्द्र वज्रि॒न्नत्र॒ विश्वे॑ दे॒वासः॑ सु॒हवा॑स॒ ऊमा॑ः ।
म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये॑ ॥

पदपाठः

ए॒व । त्वाम् । इ॒न्द्र॒ । व॒ज्रि॒न् । अत्र॑ । विश्वे॑ । दे॒वासः॑ । सु॒ऽहवा॑सः । ऊमाः॑ ।
म॒हाम् । उ॒भे इति॑ । रोद॑सी॒ इति॑ । वृ॒द्धम् । ऋ॒ष्वम् । निः । एक॑म् । इत् । गृ॒ण॒ते॒ । वृ॒त्र॒ऽहत्ये॑ ॥

सायणभाष्यम्

चतुर्थे मण्डले द्वितीयानुवाकेऽष्ट सूक्तानि व्याख्यातानि । एवात्वामिन्द्रेत्येकादशर्चं नवमं सूक्तम् । तस्य मण्दलादिपरिभाषया वामदेव ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम् । एवैकादशेति । अग्निष्टोमे माध्यन्दिनसवने मैत्रावरुणशस्त्रं इदं सूक्तम् । सूत्र्यते हि । एवा त्वामिन्द्रोशन्नु षुणः सुमना उपाक इति याज्या । आ. ५-१६ । इति । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि मैत्रावरुणशस्त्रेऽहीनसूक्तं तत्स्थाने त्रीणि सम्पातसूक्तानि । तत्रेदं प्रथमं सूक्तम् । सूत्रितं च । एवा त्वामिन्द्रयन्न इन्द्रः । आ. ७-५ । इति ॥

अत्रास्मिन्यज्ञे वज्रिन् हे वज्रवन्निन्द्र सुहवासः सुहवाः शोभनाह्वाना ऊमा रक्शका विश्वे देवासः सर्वे देवा उभे रोदसी द्यावापृथिव्यौ च एवैवमुक्तप्रकारेण स्तूयमानं महां महान्तं प्रभूतं वृद्धं गुणैः प्रवृद्धमृष्टं दर्शनीयं त्वामेकमिदेकमेव वृत्रहत्ये व्रुत्रहननार्थं निर्वृणते । निःशेषेण सम्भजन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः