मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ६

संहिता

त्वं म॒हीम॒वनिं॑ वि॒श्वधे॑नां तु॒र्वीत॑ये व॒य्या॑य॒ क्षर॑न्तीम् ।
अर॑मयो॒ नम॒सैज॒दर्ण॑ः सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ॥

पदपाठः

त्वम् । म॒हीम् । अ॒वनि॑म् । वि॒श्वऽधे॑नाम् । तु॒र्वीत॑ये । व॒य्या॑य । क्षर॑न्तीम् ।
अर॑मयः । नम॑सा । एज॑त् । अर्णः॑ । सु॒ऽत॒र॒णान् । अ॒कृ॒णोः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वं महीं महतीं विश्वधेनां विश्वस्य प्रीणयित्रीं तुर्वीतये तुर्वीतिनाम्ने राज्ञे वयाय वय्यनाम्ने च क्षरन्तीमभीष्टान् कामान्दुहतीमवनिं भूमिं नमसान्नेनैजदेजता चलतार्णोऽर्णसोदकेन चारमयः । रमयसि । इन्द्रः पृथिवीमन्नोदकसमृद्धां करोतीत्यर्थः । किञ्च हे इन्द्र त्वं सिन्धून् जलानि सुतरणान् सुष्ठु तीर्णान्यकृणोः । अकार्षीः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः