मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ८

संहिता

पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ।
परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्र॒ः स्रवि॑तवे पृथि॒व्या ॥

पदपाठः

पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ।
परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥

सायणभाष्यम्

वृत्रं वृत्राख्यमसुरं जघन्वाह्नतवानिन्द्रो गूर्तास्तमिस्रया गीर्णाः पूर्वीर्बह्वीरुषसः शरदश्च संवत्सरांश्च व्यसृजत् । विशेषेण ससर्ज । तथा सन्धून् वृत्रेणावृतान्युदकानि व्यसृजत् । किञ्च इन्द्रः परिष्ठिता मेघेषु परितः स्थिता बद्बधाना वृत्रेण परितो बध्यमानाः सीरा नदीः । सीरा इति नदीनामैतत् । पृथिव्या पृथिवीरूपेण मार्गेण प्रवितवे स्रवितुं गमनार्थमतृणत् । अविध्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः