मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् ९

संहिता

व॒म्रीभि॑ः पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ ।
व्य१॒॑न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रन्त॒ पर्व॑ ॥

पदपाठः

व॒म्रीभिः॑ । पु॒त्रम् । अ॒ग्रुवः॑ । अ॒दा॒नम् । नि॒ऽवेश॑नात् । ह॒रि॒ऽवः॒ । आ । ज॒भ॒र्थ॒ ।
वि । अ॒न्धः । अ॒ख्य॒त् । अहि॑म् । आ॒ऽद॒दा॒नः । निः । भू॒त् । उ॒ख॒ऽछित् । सम् । अ॒र॒न्त॒ । पर्व॑ ॥

सायणभाष्यम्

हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र त्वं वम्रीभिरुपजिह्विकाभिरदानमद्यमानमग्रुवः । अग्रू नाम काचित् । तस्याः पुत्रं निवेशनाद्वल्मीकाख्यात्स्थानादा जभर्थ । आहृतवानसि । अददान इन्द्रेणाह्रियमाणोऽग्रुवः पुत्रोऽन्धः पूर्वमन्धः सन् अहिं सर्पं व्यख्यत् । विशेषेणाश्यत् । ततो निर्भूत् । वल्मिकान्निर्गतोऽभूत् । उखच्छिद्वल्मीकाख्याया उखायाश्छेदकानि पर्व पर्वाण्यस्य सर्वाण्यङ्गानां शिथिलानि पर्वाणि समरन्त । समगच्छन्त । उपजिह्विकाभिः शिथिलीकृतान्यग्रुवः पुत्रस्य पर्वाणीन्द्रेण समधीयन्तेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः