मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १९, ऋक् १०

संहिता

प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि ।
यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥

पदपाठः

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वि॒प्र॒ । आ॒ऽवि॒द्वान् । आ॒ह॒ । वि॒दुषे॑ । करां॑सि ।
यथा॑ऽयथा । वृष्ण्या॑नि । स्वऽगू॒र्ता । अपां॑सि । रा॒ज॒न् । नर्या॑ । अवि॑वेषीः ॥

सायणभाष्यम्

हे राजन्राजमानेन्द्र वृष्ण्यानि वर्षनयोग्यानि स्वगूर्ता स्वगूर्तानि स्वयमुद्गीर्णानि नर्या नर्याणि मनुष्यहितान्यपाम्सि त्वत्संबन्धीनि कर्माणि यथा यथाविवेषीर्व्याप्नोः । अकार्षीरिति यावत् । तथा तथा हे विप्र प्राज्ञेन्द्र विदुषे विदुषः सर्वं जानतस्ते त्वत्संबन्धीनि पूर्वाणि पुउरातनानि करणानि कर्माण्याविद्वान् अ समन्ताज्जानन् वामदेवः करांसि त्वदीयानि कर्माणि प्र प्रकर्षेणाह । ब्रवीति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः