मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् १

संहिता

आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणि॑ः पृत॒न्यून् ॥

पदपाठः

आ । नः॒ । इन्द्रः॑ । दू॒रात् । आ । नः॒ । आ॒सात् । अ॒भि॒ष्टि॒ऽकृत् । अव॑से । या॒स॒त् । उ॒ग्रः ।
ओजि॑ष्ठेभिः । नृ॒ऽपतिः॑ । वज्र॑ऽबाहुः । स॒म्ऽगे । स॒मत्ऽसु॑ । तु॒र्वणिः॑ । पृ॒त॒न्यून् ॥

सायणभाष्यम्

आ न इन्द्र इत्येकादशर्चं दशमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । आ न इत्यनुक्रमणिका । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि निश्केवल्य एतन्निविद्धानीयम् । सूत्रितं च । आ न इन्द्र इति निष्केवल्यम् । आ. ७-५ । इति । महाव्रतेऽप्येतत्संपातसूक्तम् । तथैव पञ्चमारण्यके सूत्रितं च । आ न इन्द्रो दूरादा न आसादिति सम्पातः ॥ ऐ. आ. ५-२-२- । इति ॥

अभिष्टिकृद्यजमानसंबन्धिनामभीष्टानाम् कर्तोग्रस्तेजस्वीन्द्रो नोऽस्माकमवसे रक्शणाय दूरादा यासत् । आयातु । आगच्छतु । अपि च आसादासन्नादन्तिकाच्चनोऽस्माकमवसे रक्शणाया यासत् । आयातु । कीदृशः । समत्सु सङ्ग्रामेशु सङ्गे शत्रुभिः संयोगे सति पृतन्यून् शत्रून् तुर्वणिर्हिंसन् वज्रबाहुर्वज्रहस्तो नृपतिर्वृष्तिद्वारा नृणां मनुष्याणां पालक ओजिश्थेभिरतिशयेन तेजस्विभिर्मरुद्भिर्युक्त इति शेशः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः