मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् २

संहिता

आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥

पदपाठः

आ । नः॒ । इन्द्रः॑ । हरि॑ऽभिः । या॒तु॒ । अच्छ॑ । अ॒र्वा॒ची॒नः । अव॑से । राध॑से । च॒ ।
तिष्ठा॑ति । व॒ज्री । म॒घऽवा॑ । वि॒ऽर॒प्शी । इ॒मम् । य॒ज्ञम् । अनु॑ । नः॒ । वाज॑ऽसातौ ॥

सायणभाष्यम्

अर्वाचीनोऽस्मदभिमुख इन्द्रोऽस्मदीयाय रक्शणाय राधसे च धनाय च नोऽच्छास्मानभि लक्षीकृत्य हरिभिरश्वैः सहा यातु । आगच्छतु । किञ्च वज्री वज्रवान्मघवा धनवान्विरप्शी महान् । विरप्शीति महन्नामसु पाठात् । अस्मदीयस्य कर्मणो द्वेष्टृभिरसुरादिभिः सह नोऽस्माकं वाजसातौ युद्धे प्राप्ते सतीममस्मदीयं यज्ञमनूद्दिश्य तिष्ठाति । तिष्ठतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः