मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ३

संहिता

इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं॑ नः ।
श्व॒घ्नीव॑ वज्रिन्त्स॒नये॒ धना॑नां॒ त्वया॑ व॒यम॒र्य आ॒जिं ज॑येम ॥

पदपाठः

इ॒मम् । य॒ज्ञम् । त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒सि॒ । क्रतु॑म् । नः॒ ।
श्व॒घ्नीऽइ॑व । व॒ज्रि॒न् । स॒नये॑ । धना॑नाम् । त्वया॑ । व॒यम् । अ॒र्यः । आ॒जिम् । ज॒ये॒म॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं नोऽस्मान्पुरो दधत् पुरस्कृतान् कुर्वन् अस्माकं क्रतुं क्रियमाणमिमं यज्ञं सनिष्यसि । सम्भजिश्यसि । अपि च श्वघ्नीव मृगयुर्मृगानिव हे वज्रिन् वज्रवन्निन्द्र त्वयार्योऽरयः स्तोतारो वयं धनानां पश्वादिधनानां सनये लाभायाजिं शत्रुसम्बन्धिनं सङ्ग्रामं जयेम । सञ्जीयास्म ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः