मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ४

संहिता

उ॒शन्नु॒ षु णः॑ सु॒मना॑ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः ।
पा इ॑न्द्र॒ प्रति॑भृतस्य॒ मध्व॒ः समन्ध॑सा ममदः पृ॒ष्ठ्ये॑न ॥

पदपाठः

उ॒शन् । ऊं॒ इति॑ । सु । नः॒ । सु॒ऽमनाः॑ । उ॒पा॒के । सोम॑स्य । नु । सुऽसु॑तस्य । स्व॒धा॒ऽवः॒ ।
पाः । इ॒न्द्र॒ । प्रति॑ऽभृतस्य । मध्वः॑ । सम् । अन्ध॑सा । म॒म॒दः॒ । पृ॒ष्ठ्ये॑न ॥

सायणभाष्यम्

अग्निष्टोमे माध्यन्दिनसवने मैत्रावरुणस्योशन्नु षु ण इति शस्त्रयाज्या । सूत्रितं च । उशन्नु षु णः सुमना उपाक इति याज्या । आ. ५-१६ ॥ इति ॥

हे स्वधावोऽन्नवन्निन्द्र सुमनाः शोभनमनस्कस्त्वमुपाके समीपे नोऽस्मानुशन्नु सु अत्यन्तं कामयमानः सन् सुषुतस्य सुष्ठ्वभिषुतं प्रतिभृतस्य संभृतं मध्वो मादकं सोमस्य सोमं नु क्षिप्रमेव पाः । पिब । पृष्ठ्येन । पृष्ठ्यशब्देन माध्यन्दिनसवन उद्गातृभिरुद्गीयमानं स्तोत्रमुच्यते । तत्संबन्धिनान्धसा पीतेन सोमेन सं ममदः । प्रहृष्टो भव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः