मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ५

संहिता

वि यो र॑र॒प्श ऋषि॑भि॒र्नवे॑भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता॑ ।
मर्यो॒ न योषा॑म॒भि मन्य॑मा॒नोऽच्छा॑ विवक्मि पुरुहू॒तमिन्द्र॑म् ॥

पदपाठः

वि । यः । र॒रप्शे । ऋषि॑ऽभिः । नवे॑भिः । वृ॒क्षः । न । प॒क्वः । सृण्यः॑ । न । जेता॑ ।
मर्यः॑ । न । योषा॑म् । अ॒भि । मन्य॑मानः । अच्छ॑ । वि॒व॒क्मि॒ । पु॒रु॒ऽहू॒तम् । इन्द्र॑म् ॥

सायणभाष्यम्

पक्वः पक्वफलो वृक्षो न वृक्ष इव । अत्र सृणिशब्दोऽङ्कुशवाची । तेनायुधमात्रं लक्ष्यते । सृण्य आयुधकुशलो जेता न शत्रुविजयी वीरपुरुष इव यो नवेघिर्नवैर्नूतनैरृषिभिर्वि ररफे । विविधं स्तूयते । स्तोताहं पुरुहुतं बहुभिराहुतं तमिन्द्रमच्छाभि लक्षीकृत्य विवक्मि । विशेषेण वच्मि । स्तौमि । तत्र दृष्टान्तः । अभि मन्यमानो मदीयेयं योषिदित्यभिजानन्मर्यो मर्त्यो योषां न स्त्रीमिव तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः