मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ६

संहिता

गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्र॑ः स॒नादे॒व सह॑से जा॒त उ॒ग्रः ।
आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ॥

पदपाठः

गि॒रिः । न । यः । स्वऽत॑वान् । ऋ॒ष्वः । इन्द्रः॑ । स॒नात् । ए॒व । सह॑से । जा॒तः । उ॒ग्रः ।
आऽद॑र्ता । वज्र॑म् । स्थवि॑रम् । न । भी॒मः । उ॒द्नाऽइ॑व । कोश॑म् । वसु॑ना । निऽऋ॑ष्टम् ॥

सायणभाष्यम्

गिरिर्न पर्वत इव स्वतवान् स्वयं प्रवृद्ध ऋष्वो महान् । ऋष्व इति महन्नाम महत् ब्रध्न ऋष्व इति तन्नामसु पाठात् । उग्र ओजस्वी य इन्द्रः सहसे शत्रोरभिभवाय सनादेव चिरादेव जात उत्पन्नो भीमः शत्रूणां भयङ्करः स इन्द्र उद्नेव कोशमुदकेन जलपत्रमिव वसुना तेजसा न्यृष्टं निगतं स्थविरं बृहद्वज्रं न वज्रं च । नेति चार्थे । आदर्ता । आदृतवानासीत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः