मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ७

संहिता

न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ ।
उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं॑ दद्धि पुरुहूत रा॒यः ॥

पदपाठः

न । यस्य॑ । व॒र्ता । ज॒नुषा॑ । नु । अस्ति॑ । न । राध॑सः । आ॒ऽम॒री॒ता । म॒घस्य॑ ।
उ॒त्ऽव॒वृ॒षा॒णः । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । अ॒स्मभ्य॑म् । द॒द्धि॒ । पु॒रु॒ऽहू॒त॒ । रा॒यः ॥

सायणभाष्यम्

हे इन्द्र यस्य तव कश्चिज्जनुषा जन्मना स्वत एव नु सत्यं वर्ता वारयिता नास्ति । राधसो यज्ञादिकर्माणां साधकस्य मघस्य त्वया दीयमानस्य धनस्यामरीत कश्चिदपि नाशयिता नास्ति हे तविषीवो बलवन्नुग्र तेजस्विन् हे पुरुहूत बहुभिराहूतेन्द्र उद्ववृषाणोऽभीष्धान् कामान्वर्षकस्त्वं रायः पश्वादिधनान्यस्मभ्यं स्तोतृभ्यो दद्धि । देहि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः