मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ८

संहिता

ईक्षे॑ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना॑म् ।
शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो॑ रा॒शिम॑भिने॒तासि॒ भूरि॑म् ॥

पदपाठः

ईक्षे॑ । रा॒यः । क्षय॑स्य । च॒र्ष॒णी॒नाम् । उ॒त । व्र॒जम् । अ॒प॒ऽव॒र्ता । अ॒सि॒ । गोना॑म् ।
शि॒क्षा॒ऽन॒रः । स॒म्ऽइ॒थेषु॑ । प्र॒हाऽवा॑न् । वस्वः॑ । रा॒शिम् । अ॒भि॒ऽने॒ता । अ॒सि॒ । भूरि॑म् ॥

सायणभाष्यम्

हे इन्द्र त्वं चर्षणीनां प्रजानां रायो धनस्य क्षयस्य गृहस्य चेक्षे । ईक्षसे । उतापि च गोनां गवां व्रजं समूहमपवर्तापवारकोऽसि । निरोधकेभ्योऽसुरेभ्यो गवां मोचयिता भवसीत्यर्थः । किञ्च हे इन्द्र शिक्षानरः शिक्षया नेता प्रज्ञानां शासकः समिथेषु युद्धेषु प्रहावान् प्रहरनवांस्त्वं भुरिं प्रभूतं वस्वो धनस्य राशिं समूहमभिनेतासि । प्रापयिता च भवसि ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः