मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् ९

संहिता

कया॒ तच्छृ॑ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया॑ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः ।
पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा॑ दधाति॒ द्रवि॑णं जरि॒त्रे ॥

पदपाठः

कया॑ । तत् । शृ॒ण्वे॒ । शच्या॑ । शचि॑ष्ठः । यया॑ । कृ॒णोति॑ । मुहु॑ । का । चि॒त् । ऋ॒ष्वः ।
पु॒रु । दा॒शुषे॑ । विऽच॑यिष्ठः । अंहः॑ । अथ॑ । द॒धा॒ति॒ । द्रवि॑णम् । ज॒रि॒त्रे ॥

सायणभाष्यम्

शचिष्ठोऽतिशयेन प्राज्ञः । तदिति लिङ्गव्यत्ययः । तत् स इन्द्रः कया शच्या कया प्रज्ञया । कचीति प्रज्ञानामैतत् । शृण्वे । श्रूयते । ऋष्टो महानिन्द्रो मुहु मुहुर्यया प्रज्ञया का चित् कानिचित्कर्माणि कृणोति । करोति । स इन्द्रो दाशुषे हविर्दत्तवते यजमानाय पुरु भूयिष्ठमंहः पापं विचयिष्ठोऽतिशयेन नाशको भवति । अथापि च जरित्रे स्तोत्रे द्रविणं पश्वादिधनं दधाति । ददाति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः