मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २०, ऋक् १०

संहिता

मा नो॑ मर्धी॒रा भ॑रा द॒द्धि तन्न॒ः प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते॑ ।
नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्त॑ः ॥

पदपाठः

मा । नः॒ । म॒र्धीः॒ । आ । भ॒र॒ । द॒द्धि । तत् । नः॒ । प्र । दा॒शुषे॑ । दात॑वे । भूरि॑ । यत् । ते॒ ।
नव्ये॑ । दे॒ष्णे । श॒स्ते । अ॒स्मिन् । ते॒ । उ॒क्थे । प्र । ब्र॒वा॒म॒ । व॒यम् । इ॒न्द्र॒ । स्तु॒वन्तः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं नोऽस्मान्मा मर्धीः । मा हिंसीः । किन्तु त्वमा भर । पोशको भव । हे इन्द्र ते त्वदीयं भूरि बह्वपि यद्धनं दाशुषे हविर्दत्तवते यजमानाय दातवे दातुम् । प्र भवतीति शेशः । नोऽस्मभ्यं तद्धनमाहृत्य दद्धि । देहि । हे इन्द्र त्वां स्तुवन्तो वयमस्मिन्नुक्थेऽस्मिन्निष्केवल्याख्यशस्त्रे ते त्वदर्थं नव्ये नूतने शस्ते प्रशस्ते देष्णे दातव्ये हविषि निमित्तभूते सति प्र ब्रवाम । प्रकर्षेण त्वां वदाम ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः