मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् २

संहिता

तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।
यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥

पदपाठः

तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् ।
यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥

सायणभाष्यम्

तुविद्युम्नस्य बहुकीर्तेस्तुविराधसो बहुधनस्य तस्येत्तस्येन्द्रस्यैव वृष्ण्यानि बलभूतान्नॄन् नेतॄन्मरुतो हे स्तोतारो यूयमिहास्मिन्यज्ञेस्तवथ । स्तुत । साह्वान् शत्रूनभिभावुकस्तरुत्रोऽस्मानापद्भ्यस्तारको यस्येन्द्रस्य क्रतुः कर्म कृष्टीः शत्रुसम्बन्धिनीः प्रजा अभ्यस्ति अभिभवति । तत्र दृष्टान्तः । विदथ्यो न सम्राट् । विदथार्हो न यज्ञार्हः सम्राट् सकललोकानामधिपतिरिव तद्वत् । तस्य वृष्ण्यानीति पूर्वेण सम्बन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः