मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ३

संहिता

आ या॒त्विन्द्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥

पदपाठः

आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥

सायणभाष्यम्

मरुत्वान्मरुद्भिः सहित इन्द्रो नोऽस्माकमवसे रक्षणाय दिवः स्वर्गलोकादायातु । आगच्छतु । पृथिव्या भूलोकाच्च मक्षु शीघ्रमा यातु । उत वा अथवा समुद्रादन्तरिक्षलोकाच्चायातु । समुद्र इत्यन्तरिक्षनाम सगरः समुद्रोऽध्वरमिति तन्नामसु पाठात् । अथवा पुरीशादुदकादायातु । पुरीषमित्युदकनाम मधु पुरीषं पिप्पलमिति तन्नामसु पाठात् । स्वर्णरात् स्वरादित्यो नरो नेता यस्य तस्माल्लोकाद्वायातु । परावतो वा दूराद्वायातु । ऋतस्योदकस्य सदनात्स्थानान्मेघलोकाद्वायातु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः