मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ४

संहिता

स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् ।
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥

पदपाठः

स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् ।
यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥

सायणभाष्यम्

य इन्द्रः स्थूरस्य स्थूलस्य बृहतो महतो रायो धनस्येते ईष्टे विदथेषु यज्ञेषु । विदथ इति यज्ञनामैतत् । तमिन्द्रमु तमिन्द्रमेव वयं स्तोतारः स्तवाम । य इन्द्रो वायुना प्रानरूपेण बलेन गोमतीशु सेनासु जयति शत्रून्विजयते । धृष्णुया धृष्णुः प्रगल्भो य इन्द्रः स्तोतॄन्वस्यो वसीयः श्रेष्ठं पश्वादिधनमच्छाभि प्रणयति प्रापयति । तमेवेन्द्रं स्तवामेति पूर्वेण सम्बन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः