मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ५

संहिता

उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।
ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥

पदपाठः

उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै ।
ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥

सायणभाष्यम्

उप स्तभायन् लोकानुपस्तम्भयन् यजध्यै यष्टुं वाचं गर्जितलक्षणां वाचं जनयन् प्रजनयन् ऋंजसानः प्रसाध्यमानः । ऋंजतिः प्रसाधनकर्मेति यास्कः । उक्थैः शस्त्रलक्षणैः स्तोत्रैः पुरुवारो बहुभिः सम्भजनीयो य इन्द्रो नमसि । नम इत्यन्ननामैतत् । यजमानैर्दत्ते हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषा तृप्तः सन् वृष्टिद्वारान्नं प्रयच्छति तेन चान्नेन पुनर्यज्ञः प्रजायत इत्यर्थः । अस्मदीयो होता सदनेषु यज्ञगृहेषु तमिन्द्रमा कृण्वीत । आभिमुखीकरोतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः