मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ६

संहिता

धि॒षा यदि॑ धिष॒ण्यन्त॑ः सर॒ण्यान्त्सद॑न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।
आ दु॒रोषा॑ः पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्नि॑ः ॥

पदपाठः

धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।
आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥

सायणभाष्यम्

धिषण्यन्तो धिषणामिन्द्रविषयां स्तुतिमिच्छन्त औशिजस्य । उशिजः कामयमाना ऋत्विजः । तेषां सम्बन्ध्योशिजो यजमानः । तस्य गोहे गृहे सदन्तो निषीदन्तो जना अद्रिम् । आदृणाति शत्रूनित्यद्रिरिन्द्रः । तमिन्द्रं धिषा स्तुत्या यदि यदा सरण्यान् उपागच्छेयुः तदा स इन्द्र आ यतु ॥ नोऽस्माकं संवरणेषु शत्रुसम्बन्धिषु निरोधेशु वह्निर्वोढा पास्त्यस्य पस्त्ये गृहे वसता यजमानेन होताह्वाता दुरोषा दुस्तरक्रोधो य इन्द्रो महान्प्रभूतो भवति । स आयात्विति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः