मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ७

संहिता

स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्ण॒ः सिष॑क्ति॒ शुष्म॑ः स्तुव॒ते भरा॑य ।
गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥

पदपाठः

स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य ।
गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥

सायणभाष्यम्

भार्वरस्य । भर्वरो जगद्भर्ता प्रजापतिः । तस्य पुत्रो भार्वरः । तस्य वृष्णः कामानां वर्षितुरिन्द्रस्य सम्बन्धी ई मेष शुष्मो बलं स्तुवते स्तोत्रं कुर्वन्तं यजमानं सिषक्ति सेवत इति यत्तत्सत्रा सत्यमेव । ईमेतद्वलमौशिजस्य यजमानस्य भराय भर्तुं गुहा गुहायां गुहारूपे हृदये प्र भवतिति यत्तत्सत्यम् । यजमानस्य होहे गृहे धिये कर्मणे प्र भवतीति यत्तत्य्सत्यम् । अयसे गमनाय कामानां प्राप्त्र्ये मदाय हर्षाय तत्र यद्बलं प्रभवति तत्सत्यम् । इन्द्रस्य बलं यजमानं सर्वदा पालयतीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः