मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् ८

संहिता

वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।
वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥

पदपाठः

वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।
वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥

सायणभाष्यम्

इन्द्रः पर्वतस्य मेधस्य वरांसि द्वाराणि वि वृण्वे विवृतानि कृतवानिति यत् । अपामुदकानां जवांसि वेगान्पयोभिर्जलैर्जिन्वे प्यायतीति यत् । यदि यदा सुध्यः शोभनकर्माणो यजमाना वाजायान्नाय वहन्ति इन्द्रं प्राप्नुवन्ति तथा गोहे गौरस्य गौरमृगस्य गवयस्य गवयमृगस्य च विदत् तौ द्वौ पशू लभत इति यत् । तत्सर्वं सत्रेति पूर्वेण सम्बन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः