मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २१, ऋक् १०

संहिता

ए॒वा वस्व॒ इन्द्र॑ः स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।
पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥

पदपाठः

ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः ।
पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । त॒े । अव॑सः । दैव्य॑स्य ॥

सायणभाष्यम्

इन्द्रस्य वार्त्रघ्नस्य पशावेवा वस्व इति हविषो याज्या । सूत्रितं च । एवा वस्व इन्द्रः सत्यः सम्राड्यद्वाग्वदन्त्यविचेतनानि । आ. ३-८ । इति ॥

एवैवमुक्तप्रकारेण स्तूयमानः सत्यः सत्यवान्वस्वो धनस्य सम्राडीश्वरो वृत्रं वृत्रनामानमसुरं हन्ता हिंसितेन्द्रः पूरवे मनुष्याय यजमानाय वरिवो धनं कः । करोति । ददातीत्यर्थः । क्रत्वा कर्मणा स्तुतिहेतुना हे पुरुष्तुत बहुभिर्यज्कमानैः स्तुतेन्द्र त्वम् नोऽस्मभ्यं रायो धनानि शग्धि । देहि । ते त्वया दीयमानस्य दैव्यस्य देवसम्बन्धिनोऽवसोऽन्नस्य । कर्मणि षष्ठी । अन्नं भक्षीय । अहं भजेय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः