यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् ।
ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥
यत् । नः॒ । इन्द्रः॑ । जु॒जु॒षे । यत् । च॒ । वष्टि॑ । तत् । नः॒ । म॒हान् । क॒र॒ति॒ । शु॒ष्मी । आ । चि॒त् ।
ब्रह्म॑ । स्तोम॑म् । म॒घऽवा॑ । सोम॑म् । उ॒क्था । यः । अश्मा॑नम् । शव॑सा । बिभ्र॑त् । एति॑ ॥
तत्र तृतीयानुवाक एकादश सूक्तानि । तत्र यन्न इन्द्र इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । यन्न इत्यनुक्रमणिका । पृष्थ्याभिप्लवषडहयोः प्रथमेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रे द्वितीयमिदं सम्पातसूक्तम् । सूत्रितं च । एवा त्वामिन्द्र यन्न इन्द्रः । आ. ७-५ । इति ॥
इन्द्रो नोऽस्मदीयं युद्धविर्लक्षणान्नादिकं जुजुषे सेवते यच्च हविरादिकं च वष्टि कामयते महान् प्रभूतः शुष्मी बलवानिन्द्रः । चिचिति चार्थे । ब्रह्म चित् हविर्लक्षनपुरोडाशादिकमन्नं च स्तोमं स्तोत्रसमूहं च सोममभिषुतं सोमं चोक्थोक्थानि शस्त्राणि चेत्येवं भुतं तद्ब्रह्मादिचतुष्टयमाकरति । आकरोतु । स्वीकरोतु । मघवा धनवान् । अत्राश्मशब्दो वज्रवाची । अश्मानं वज्रं बिभ्रत् धारयन् शवसा बलेन युक्तो य इन्द्र एति आगच्छति । स इन्द्रः स्वीकरोत्विति पूर्वेन सम्बन्धः ॥ १ ॥