मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् २

संहिता

वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑म॒ः शची॑वान् ।
श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्या॒ः पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥

पदपाठः

वृषा॑ । वृष॑न्धिम् । चतुः॑ऽअश्रिम् । अस्य॑न् । उ॒ग्रः । बा॒हुऽभ्या॑म् । नृऽत॑मः । शची॑ऽवान् ।
श्रि॒ये । परु॑ष्णीम् । उ॒षमा॑णः । ऊर्णा॑म् । यस्याः॑ । पर्वा॑णि । स॒ख्याय॑ । वि॒व्ये ॥

सायणभाष्यम्

वृषा कामानां वर्षिता वृषन्धिं मेघभेदनद्वारेण वर्षं कुर्वन्तं चतुरश्रिं चतुसृभिरश्रिभिर्धाराभिरुपेतं वज्रं बाहुभ्यां हस्ताभ्यामस्यन् शत्रुषु प्रक्शिपन् उग्र उद्गूर्णबलो नृतमः नेतृतमः शचीवान् कर्मवानिन्द्र ऊर्णामाच्छादिकां परुष्णीं पर्ववतीं नदीं श्रिय आश्रयणार्थमुषमाणः सेवमानो भवति । यस्या नद्याः पर्वाणि भिनाअन्देशान् सख्याय सखिकर्मणे विव्ये संवृतान् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः