मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ४

संहिता

विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः ।
आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाता॑ः ॥

पदपाठः

विश्वा॑ । रोधां॑सि । प्र॒ऽवतः॑ । च॒ । पू॒र्वीः । द्यौः । ऋ॒ष्वात् । जनि॑मन् । रे॒ज॒त॒ । क्षाः ।
आ । मा॒तरा॑ । भर॑ति । शु॒ष्मी । आ । गोः । नृ॒ऽवत् । परि॑ऽज्मन् । नो॒नु॒व॒न्त॒ । वाताः॑ ॥

सायणभाष्यम्

विश्वा विश्वानि रोधांसि । रोधः शब्देनोन्नतप्रदेशा उच्यन्ते । उन्नतप्रदेशाः पर्वताश्च पूर्वीः पूर्व्यो बहूनि प्रवतः प्रवणानि । समुद्राश्चेत्यर्थः । द्यौर्दुलोकश्च क्शाः पृथिवी च जनमन्निन्द्रस्य जन्मनि सत्यृष्वान्महतोऽस्मादिन्द्राद्रेजत । अरेजन्त । अकंपन्त । किञ्च युष्मी बलवानिन्द्रो गोर्गन्तुः सूर्यसय् मातरा मातरौ मातापितृभूतौ द्यावापृथिव्यौ च । आ इति चार्थे । आ भरति । आ समन्ताद्बिभर्ति । नृवन्मनुष्या इव वाता इन्द्रेण प्रेरिता वायवश्च परिज्मन्नन्तरिक्षे नोनुवन्त । शब्दायन्ते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः