मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ५

संहिता

ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ ।
यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥

पदपाठः

ता । तु । ते॒ । इ॒न्द्र॒ । म॒ह॒तः । म॒हानि॑ । विश्वे॑षु । इत् । सव॑नेषु । प्र॒ऽवाच्या॑ ।
यत् । शू॒र॒ । धृ॒ष्णो॒ इति॑ । धृ॒ष॒ता । द॒धृ॒ष्वान् । अहि॑म् । वज्रे॑ण । शव॑सा । अवि॑वेषीः ॥

सायणभाष्यम्

हे इन्द्र महतः प्रभूतस्य ते त्वदीयानि ता तानि कर्माणि तु क्षिप्रं महानि महान्ति भवन्ति । विश्वेष्वित्सर्वेष्वेव सवनेषु प्रातः सवनादिकर्मसु त्वदीयानि कर्माणि प्रवाच्या प्रवाच्यानि स्तोतृभिः प्रकर्षेण वक्तुं योग्यानि स्तुत्यानीति यत् । हे धृष्णो प्रगल्भ हे शूर विक्रान्तेन्द्र दधृष्वान्पालकत्वेन लोकान्धारयन् शवसा बलेन युक्तस्त्वं धृषता धर्षकेण वज्रेणाहिं वृत्रमसुरमविवेषीः अवधीरिति यत् । एतदादीनि कर्माणि महान्तीति पूर्वेण सम्बन्धः । अत्राविवेषीरिति वधकर्मा ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः