मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ६

संहिता

ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्न॑ः ।
अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥

पदपाठः

ता । तु । ते॒ । स॒त्या । तु॒वि॒ऽनृ॒म्ण॒ । विश्वा॑ । प्र । धे॒नवः॑ । सि॒स्र॒ते॒ । वृष्णः॑ । ऊध्नः॑ ।
अध॑ । ह॒ । त्वत् । वृ॒ष॒ऽम॒नः॒ । भि॒या॒नाः । प्र । सिन्ध॑वः । जव॑सा । च॒क्र॒म॒न्त॒ ॥

सायणभाष्यम्

हे तुविनृम्णाधिकबलेन्द्र ते त्वदीयानि विश्वा विश्वानि ता तानि कर्माणि तु क्शिप्रं सत्या सत्यानि भवन्ति । हे इन्द्र वृष्णः कामानां वर्शितुस्त्वत्तो भयाद्धेनवो गव ऊध्नः स्वकीयादापीनात्प्रसिस्रते । प्रकर्षेण क्षीरं क्शरन्ति । अधापि च हे वृषमनः कामानां वर्षणपरमनस्केन्द्र सिन्धवो नद्यस्त्वत्त्वत्तोभियाना बिभ्यत्यः सत्यो जवसा वेगेन प्र चक्रमन्त ह । प्रकर्षेण गच्छन्ति खलु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः