मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २२, ऋक् ८

संहिता

पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः ।
अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥

पदपाठः

पि॒पी॒ळे । अं॒शुः । मद्यः॑ । न । सिन्धुः॑ । आ । त्वा॒ । शमी॑ । श॒श॒मा॒नस्य॑ । श॒क्तिः ।
अ॒स्म॒द्र्य॑क् । शु॒शु॒चा॒नस्य॑ । य॒म्याः॒ । आ॒शुः । न । र॒श्मिम् । तु॒वि॒ऽओज॑सम् । गोः ॥

सायणभाष्यम्

हे इन्द्र मद्यो मादयितांशुः सोमः पिपीळे । आपीड्यत । अभ्यसूयतेत्यर्थः । नेति सम्प्रत्यर्थे । न इदानीं सिन्धुः स्यन्दमानः सोमस्त्वा त्वामायम्याः । आयच्छतु । शुशुचास्य दीप्यमानस्य शशमानस्य स्तुवतः सम्बन्ध्यस्यद्र्यगस्मदभिमुखं शमी शमनं शक्तिः स्तुतिकर्म चायच्छतु । तत्र दृष्टान्तः । आशुः शीघ्रगामी यन्ता गोर्गन्तुरश्वस्य तुव्योजसं बहुबलम् । दृढमित्यर्थः । रश्मिं न अश्वबन्धनरज्जुमिव तद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः