मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् १

संहिता

क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ ।
पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अन्धो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥

पदपाठः

क॒था । म॒हाम् । अ॒वृ॒ध॒त् । कस्य॑ । होतुः॑ । य॒ज्ञम् । जु॒षा॒णः । अ॒भि । सोम॑म् । ऊधः॑ ।
पिब॑न् । उ॒शा॒नः । जु॒षमा॑णः । अन्धः॑ । व॒व॒क्षे । ऋ॒ष्वः । शु॒च॒ते । धना॑य ॥

सायणभाष्यम्

कथा महामित्येकादशर्चं द्वितीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ऋतस्य हीत्याद्यास्तिस्र ऋतदेवताका वा । तथा चानुक्रान्तम् । कथोपांत्यास्तिस्र ऋतदेव्यो वेति । आभिप्लविकेऽहनि दशरात्रे प्रथमेऽहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रेऽहीनसूक्तस्य स्थान इदं तृतीयं सम्पातसूक्तम् । सूत्रितं च । कथा महामिन्द्रः पूर्भिद्य एक इत् । आ. ७-५ । इति ॥ महाव्रते निश्केवल्य एतत् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं च । कथा महामवृधत्कस्य होतुरिति सम्पातः । ऐ. आ. ५-२-२- ॥ इति ॥

महां महान्तं गुणैः प्रवृद्धमिन्द्रं कथा कथं केन प्रकारेणाव्रुधत् । वर्धयेत् । अस्मत्प्रेरिता स्तुतिरिति शेशः । तस्य महिम्नोऽतिमहत्त्वादिति भावः । स एवेन्द्रो होतुर्होमनिश्पादकस्य कस्य यजमानस्य यज्ञं यागं जुशाणः प्रीयमानः सन् अभि । गच्छेदिति शेशः । उपसर्गश्रुतेरुचितक्रियाध्याहारः । किञ्च ऊध उद्धतमतिप्रव्रुद्धं सोममन्धः सोमलक्षणमन्नं पिबन्नास्वादयन् उशानस्तदेवानां कामयमानो जुशमाणः सेवमानश्च ऋष्वो महानिन्द्रः शुचते प्रदीप्ताय धनाय हिरण्यादि लक्शणाय । उक्तलक्षणं धनं कस्मै यजमानाय दातुं ववक्षे । वहति । पीतमेवान्नं जठरे धारयति । अनेन वाक्यद्वयनेन्द्रस्याचिन्त्यचरितत्वं ख्यापितं भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः