मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् २

संहिता

को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभि॒ः को अ॑स्य ।
कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्यो॑ः ॥

पदपाठः

कः । अ॒स्य॒ । वी॒रः । स॒ध॒ऽमाद॑म् । आ॒प॒ । सम् । आ॒नं॒श॒ । सु॒म॒तिऽभिः॑ । कः । अ॒स्य॒ ।
कत् । अ॒स्य॒ । चि॒त्रम् । चि॒कि॒ते॒ । कत् । ऊ॒ती । वृ॒धे । भु॒व॒त् । श॒श॒मा॒नस्य॑ । यज्योः॑ ॥

सायणभाष्यम्

अस्येन्द्रस्य सम्बन्धिनं सधमादम् । सह माद्यन्तीति सधमादः सङ्ग्रामः । तं सह सोमपानं वा वीरः स्तोत्राणाममित्राणां वा वीरयिता कः पुमानाप । प्राप्नोति । कश्चास्येन्द्रस्य सुमतिभिः शोभनाभिरनुग्रहबुद्धिभिः समानंश । सङ्गच्छते । कत्कदा वास्येन्द्रस्य चित्रं चायनीयं धनं चिकिते । प्रज्ञायते । तत्प्रदानसमयं न कोऽपि जानातीत्यर्थः । कत्कदा वा शशमानस्य स्तुवतो यज्योर्यष्तुर्यजमानस्य व्रुधे वर्धनायोती ऊत्या रक्षया भुवत् । भवेत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः