मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ३

संहिता

क॒था शृ॑णोति हू॒यमा॑न॒मिन्द्र॑ः क॒था शृ॒ण्वन्नव॑सामस्य वेद ।
का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहु॒ः पपु॑रिं जरि॒त्रे ॥

पदपाठः

क॒था । शृ॒णो॒ति॒ । हू॒यमा॑नम् । इन्द्रः॑ । क॒था । शृ॒ण्वन् । अव॑साम् । अ॒स्य॒ । वे॒द॒ ।
काः । अ॒स्य॒ । पू॒र्वीः । उप॑ऽमातयः । ह॒ । क॒था । ए॒न॒म् । आ॒हुः॒ । पपु॑रिम् । ज॒रि॒त्रे ॥

सायणभाष्यम्

इन्द्रः परमैश्वर्ययुक्तो हूयमानमाह्वयन्तं स्तोतारं कथा कथं शृणोति । स्तोत्राणि शृण्वन्नस्य स्तोतुः सम्बन्धीन्यवसां रक्षणानि कथा कथं च वेद । वेत्ति । पूर्वीः पुरातनान्यस्येन्द्रस्य सम्बन्धीन्युपमातयो दानानि का ह । कानि चित् सन्तीति शेषः । तानि दानानि जरित्रे स्तोतुः सम्बन्धिनां कामानां पपुरिं पूरयितारमेनमिन्द्रं कथा कथं चाहुः । वदन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः