मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ४

संहिता

क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः ।
दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥

पदपाठः

क॒था । स॒ऽबाधः॑ । श॒श॒मा॒नः । अ॒स्य॒ । नश॑त् । अ॒भि । द्रवि॑णम् । दीध्या॑नः ।
दे॒वः । भु॒व॒त् । नवे॑दाः । मे॒ । ऋ॒ताना॑म् । नमः॑ । ज॒गृ॒भ्वान् । अ॒भि । यत् । जुजो॑षत् ॥

सायणभाष्यम्

स बाधः सपत्नानां पीडासहितः शशमान इन्द्रविषयां स्तुतिं कुर्वन् दीध्यानः कर्मभिर्दीप्यमानो यजमानोऽस्येन्द्रस्य सम्बन्धि द्रविणं पश्वादिधनं कथा कथमभि नशत् । अभिप्राप्नोति । नमो हविर्लक्षणमन्नं जगृभ्वान् गृहीतवानिन्द्रो यद्यदाभि जुजोशत् मामभिसेवेत तदा देवो दीप्यमान इन्द्रो मे मदीयानामृतानां स्तोत्राणां नवेदा अतिशयेन ज्ञाता भुवत् । भवेत् । अत्र निपातस्थो नकारोऽतिशयवाची ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः