मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २३, ऋक् ५

संहिता

क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष ।
क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥

पदपाठः

क॒था । कत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । दे॒वः । मर्त॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
क॒था । कत् । अ॒स्य॒ । स॒ख्यम् । सखि॑ऽभ्यः । ये । अ॒स्मि॒न् । काम॑म् । सु॒ऽयुज॑म् । त॒त॒स्रे ॥

सायणभाष्यम्

देवो द्योतमान इन्द्रोऽस्या उषसो व्युष्टौ प्रभाते मर्तस्य मर्त्यस्य मनुष्यस्य स्तोतुः सम्बन्धि सख्यं सखिकर्म कथा कथं केन प्रकारेण तत्कदा जुजोष । सेवेत । ये स्त्योतारोऽस्मिन्निन्द्रे सुयुजं सुष्ठु प्रयुज्यमानं कामं कामनीयं हविः स्तोत्रं च ततस्ते वितेनिरे अस्येन्द्रस्य सख्यं सखिकर्म सखिभ्यः कथा कथं कत्कदाचित् । भवेदिति शेशः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः