ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः ।
ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥
ऋ॒तम् । ये॒मा॒नः । ऋ॒तम् । इत् । व॒नो॒ति॒ । ऋ॒तस्य॑ । शुष्मः॑ । तु॒र॒ऽयाः । ऊं॒ इति॑ । ग॒व्युः ।
ऋ॒ताय॑ । पृ॒थ्वी इति॑ । ब॒हु॒ले इति॑ । ग॒भी॒रे इति॑ । ऋ॒ताय॑ । धे॒नू इति॑ । प॒र॒मे इति॑ । दु॒हा॒ते॒ इति॑ ॥
ऋतमृतदेवं येमानो नियच्छन् स्तुतिभिर्वशीकुर्वन् स्तोता ऋतमित् ऋतदेवमेव वनोति । सम्भजते । ऋतस्य ऋतदेवस्य सम्बन्धि शुष्मो बलं तुरयास्तूर्णम् गव्युः । उ इति चार्थे । जलकामश्च भवति । बहुले विस्तीर्णे गभीरे दुरवगाहे पृथ्वी च्यावापृथिव्यावृताय ऋतदेवाय भवतः । धेनू प्रीणयित्र्यौ परमे उत्कृष्टे द्यावापृथिव्यावृताय ऋतदेवायैव दुहाते । दोहनं कुर्वाते ॥ १० ॥