मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् १

संहिता

का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् ।
द॒दिर्हि वी॒रो गृ॑ण॒ते वसू॑नि॒ स गोप॑तिर्नि॒ष्षिधां॑ नो जनासः ॥

पदपाठः

का । सु॒ऽस्तु॒तिः । शव॑सः । सू॒नुम् । इन्द्र॑म् । अ॒र्वा॒ची॒नम् । राध॑से । आ । व॒व॒र्त॒त् ।
द॒दिः । हि । वी॒रः । गृ॒ण॒ते । वसू॑नि । सः । गोऽप॑तिः । निः॒ऽसिधा॑म् । नः॒ । ज॒ना॒सः॒ ॥

सायणभाष्यम्

का सुष्टुतिरित्येकादशर्चं तृतीयं सूक्तं वामदेवस्यार्षमैन्द्रम् । दशम्यनुष्तुप् शिष्टास्त्रिष्टुभः । तथा चानुक्रमणिका । का सुष्टुतिरुपान्त्यानुष्टुबिति । विनियोगो लैङ्गिकः ॥

का कीदृशी सुष्टुतिः शवसः सूनुं बलस्य पुत्रम् । अतिबलिनमित्यर्थः । अर्वाचीनमस्मदभिमुखमिन्द्रं परमैश्वर्ययुक्तं राधसे धनायास्मभ्यं धनं दातुमाववर्तत् । आवर्तयेत् । हे जनासो जना यजमाना वीरो विक्रान्तो गोपतिः पश्वादिधनस्य पालकः स इन्द्रो निष्षिधां निष्षेद्धॄणां शत्रूणां सम्बन्धीनि वसूनि धनानि गृणते गृणद्भ्यः स्तोतृभ्यो नोऽस्मभ्यं ददिर्हि । दाता खलु भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११