मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् २

संहिता

स वृ॑त्र॒हत्ये॒ हव्य॒ः स ईड्य॒ः स सुष्टु॑त॒ इन्द्र॑ः स॒त्यरा॑धाः ।
स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥

पदपाठः

सः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः ।
सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुष्व॑ये । वरि॑वः । धा॒त् ॥

सायणभाष्यम्

स इन्द्रो वृत्रहत्ये वृत्राणां शत्रूणां हत्ये हनने निमित्तभूते सति यामन्युद्धे हव्य आह्वातव्यो भवति । स इन्द्र ईढ्यः स्तुत्यो भवति । स इन्द्रः सुष्टुतः सन् सत्यराधा यजमानेभ्यो दातुं सत्यधनो भवति । मघवा धनवान् स इन्द्रो ब्रह्मण्यते स्तोत्रमिच्छते सुष्वये सोमं सुन्वते मर्त्याय मनुष्याय यजमानाय वरिव्बो धनम् । वरिव इति धननामैतत् । आ धात् । आ समन्ताद्ददाति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११