मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ३

संहिता

तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्व॑ः कृण्वत॒ त्राम् ।
मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥

पदपाठः

तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् ।
मि॒थः । यत् । त्या॒गम् । उ॒भया॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥

सायणभाष्यम्

नरो नेतारो मनुष्याः समीके युद्धे तमित्तमेवेन्द्रं वि ह्वयन्ते । विविधमाह्वानं कुर्वते । तन्वः स्वकीयानि शरीराणि रिरिक्वांसस्तपसा रेचयन्तो यजमानास्तमेवेन्द्रं त्रां त्रातारं कृण्वत । कृण्वते । कुर्वते । यद्यदा मिथः परस्परं सङ्गता उभयास उभये यजमानाः स्तोतारश्च त्यागं त्यागकर्तारं दातारमिन्द्रमग्मन् उपगच्छन्ति तदा नर उभयविधा मनुष्यास्तोकस्य पुत्रस्य तनयस्य पौत्रस्य च सातौ लाभे निमित्तभूते सति तमेवेन्द्रं त्रातारं कुर्वन्तीति सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११