मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ४

संहिता

क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो॑ मि॒थो अर्ण॑सातौ ।
सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके॑ ॥

पदपाठः

क्र॒तु॒ऽयन्ति॑ । क्षि॒तयः॑ । योगे॑ । उ॒ग्र॒ । आ॒शु॒षा॒णासः॑ । मि॒थः । अर्ण॑ऽसातौ ।
सम् । यत् । विशः॑ । अव॑वृत्रन्त । यु॒ध्माः । आत् । इत् । नेमे॑ । इ॒न्द्र॒य॒न्ते॒ । अ॒भीके॑ ॥

सायणभाष्यम्

हे उग्रोद्गूर्णबलेन्द्र आशुषाणासो व्याप्नुवन्तः क्षितयो मनुष्याः । क्षितय इति मनुष्यनामैतत् । अर्णसातौ सस्यादिफलसिद्ध्यर्थमुदकलाभे निमित्ते सति मिथः परस्परं योगे सम्बन्धे सति क्रतूयन्ति । क्रतूनि कर्माणीच्छन्ति । यद्यदा युध्मा योधयिओत्र्यो विशः प्रजा अभीके युद्धे । अभीक इति सङ्ग्रामनामैतत् । समववृत्रन्त संवर्तन्ते परस्परं गङ्गच्छन्ते आदित् तदानीमेव नेमे केचन भाग्यवन्तो योधका इन्द्रयन्ते । युद्ध मिन्द्र्मिच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११