मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २४, ऋक् ५

संहिता

आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात् ।
आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥

पदपाठः

आत् । इत् । ह॒ । नेमे॑ । इ॒न्द्रि॒यम् । य॒ज॒न्ते॒ । आत् । इत् । प॒क्तिः । पु॒रो॒ळाश॑म् । रि॒रि॒च्या॒त् ।
आत् । इत् । सोमः॑ । वि । प॒पृ॒च्या॒त् । असु॑स्वीन् । आत् । इत् । जु॒जो॒ष॒ । वृ॒ष॒भम् । यज॑ध्यै ॥

सायणभाष्यम्

आदित्तदानीमेव युद्धकाले नेमेऽन्ये योधा इन्द्रियं बलवन्तमिन्द्रं यजन्ते ह । पूजयन्ति खलु । कश्चिदादिदनन्तरमेव पुरोळाशं पिष्तरूपं हविः पक्तिः पचन् रिरिच्यात् । इन्द्राय दद्यात् । आदिदनन्तरमेव सोमोऽभिषुतसोमो यजमानोऽसुष्वीननभिषुतसोमान्यजमानान्वि पपृच्यात् । धनैः पृथक्कुर्यात् । आदिदनन्तरमेव कश्चिद्व्रुषभं कामानां वर्षितारमिन्द्रं यजध्यै यष्टुं जुजोश । सेवते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११